Lata Mangeshkar - Yamunashtak, Pt. 1 paroles de chanson

paroles de chanson Yamunashtak, Pt. 1 - Lata Mangeshkar




नमामि यमुनामहं सकल सिद्धि हेतुं मुदा
मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम्
तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना
सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम्
कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला
विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता
सघोषगति दन्तुरा समधिरूढदोलोत्तमा
मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता
भुवं भुवनपावनीमधिगतामनेकस्वनैः
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः
तरंगभुजकंकण प्रकटमुक्तिकावाकुका
नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम्
अनन्तगुण भूषिते शिवविरंचिदेवस्तुते
घनाघननिभे सदा ध्रुवपराशराभीष्टदे
विशुद्ध मथुरातटे सकलगोपगोपीवृते
कृपाजलधिसंश्रिते मम मनः सुखं भावय
यया चरणपद्मजा मुररिपोः प्रियं भावुका
समागमनतो भवत्सकलसिद्धिदा सेवताम्
तया सह्शतामियात्कमलजा सपत्नीवय
हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम्
नमोऽस्तु यमुने सदा तव चरित्र मत्यद्भुतं
जातु यमयातना भवति ते पयः पानतः
यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः
ममास्तु तव सन्निधौ तनुनवत्वमेतावता
दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये
अतोऽस्तु तव लालना सुरधुनी परं सुंगमा
त्तवैव भुवि कीर्तिता तु कदापि पुष्टिस्थितैः
स्तुति तव करोति कः कमलजासपत्नि प्रिये
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः
इयं तव कथाधिका सकल गोपिका संगम्
स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः
तवाष्टकमिदं मुदा पठति सूरसूते सदा
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
स्वभावविजयो भवेत वदति वल्लभः श्री हरेः



Writer(s): Chitragupta



Attention! N'hésitez pas à laisser des commentaires.