Текст песни Pranamya Shirasa Devam - S. P. Balasubrahmanyam
प्रणम्य
शिरसा
देवं
गौरीपुत्रं
विनायकम्
।
भक्तावासं
स्मरेन्नित्यं
आयुःकामार्थसिद्धये
॥
प्रणम्य
शिरसा
देवं
गौरीपुत्रं
विनायकम्
।
भक्तावासं
स्मरेन्नित्यं
आयुःकामार्थसिद्धये
प्रथमं
वक्रतुण्डं
च
एकदन्तं
द्वितीयकम्
।
तृतीयं
कृष्णपिङ्गाक्षं
गजवक्त्रं
चतुर्थकम्
॥
लम्बोदरं
पञ्चमं
च
षष्ठं
विकटमेव
च
।
सप्तमं
विघ्नराजेन्द्रं
धूम्रवर्णं
तथाष्टमम्
॥
नवमं
भालचन्द्रं
च
दशमं
तु
विनायकम्
।
एकादशं
गणपतिं
द्वादशं
तु
गजाननम्
॥
द्वादशैतानि
नामानि
त्रिसंध्यं
यः
पठेन्नरः
।
न
च
विघ्नभयं
तस्य
सर्वसिद्धिकरः
प्रभुः
॥
विद्यार्थी
लभते
विद्यां
धनार्थी
लभते
धनम्
।
पुत्रार्थी
लभते
पुत्रान्मोक्षार्थी
लभते
गतिम्
॥
जपेद्गणपतिस्तोत्रं
षड्भिर्मासैः
फलं
लभेत्
।
संवत्सरेण
सिद्धिं
च
लभते
नात्र
संशयः
॥
अष्टेभ्यो
ब्राह्मणेभ्यश्च
लिखित्वा
यः
समर्पयेत्
।
तस्य
विद्या
भवेत्सर्वा
गणेशस्य
प्रसादतः
॥
Внимание! Не стесняйтесь оставлять отзывы.