Lyrics Sri Suktam - DIVINE
हरिः
ॐ
हिरण्यवर्णां
हरिणीं
सुवर्णरजतस्रजाम्
।
चन्द्रां
हिरण्मयीं
लक्ष्मीं
जातवेदो
म
आवह
॥१॥
तां
म
आवह
जातवेदो
लक्ष्मीमनपगामिनीम्
।
यस्यां
हिरण्यं
विन्देयं
गामश्वं
पुरुषानहम्
॥२॥
अश्वपूर्वां
रथमध्यां
हस्तिनादप्रबोधिनीम्
।
श्रियं
देवीमुपह्वये
श्रीर्मा
देवी
जुषताम्
॥३॥
कां
सोस्मितां
हिरण्यप्राकारामार्द्रां
ज्वलन्तीं
तृप्तां
तर्पयन्तीम्
।
पद्मे
स्थितां
पद्मवर्णां
तामिहोपह्वये
श्रियम्
॥४॥
प्रभासां
यशसा
लोके
देवजुष्टामुदाराम्
।
पद्मिनीमीं
शरणमहं
प्रपद्येऽलक्ष्मीर्मे
नश्यतां
त्वां
वृणे
॥५॥
आदित्यवर्णे
तपसोऽधिजातो
वनस्पतिस्तव
वृक्षोऽथ
बिल्वः
।
तस्य
फलानि
तपसानुदन्तु
मायान्तरायाश्च
बाह्या
अलक्ष्मीः
॥६॥
उपैतु
मां
देवसखः
कीर्तिश्च
मणिना
सह
।
प्रादुर्भूतोऽस्मि
राष्ट्रेऽस्मिन्
कीर्तिमृद्धिं
ददातु
मे
॥७॥
क्षुत्पिपासामलां
ज्येष्ठामलक्ष्मीं
नाशयाम्यहम्
।
अभूतिमसमृद्धिं
च
सर्वां
निर्णुद
गृहात्
॥८॥
गन्धद्वारां
दुराधर्षां
नित्यपुष्टां
करीषिणीम्
।
ईश्वरींग्
सर्वभूतानां
तामिहोपह्वये
श्रियम्
॥९॥
मनसः
काममाकूतिं
वाचः
सत्यमशीमहि
।
पशूनां
रूपमन्नस्य
मयि
श्रीः
श्रयतां
यशः
॥१०॥
कर्दमेन
प्रजाभूता
सम्भव
कर्दम
।
श्रियं
वासय
मे
कुले
मातरं
पद्ममालिनीम्
॥११॥
आपः
सृजन्तु
स्निग्धानि
चिक्लीत
वस
गृहे
।
नि
च
देवी
मातरं
श्रियं
वासय
कुले
॥१२॥
आर्द्रां
पुष्करिणीं
पुष्टिं
पिङ्गलां
पद्ममालिनीम्
।
चन्द्रां
हिरण्मयीं
लक्ष्मीं
जातवेदो
म
आवह
॥१३॥
आर्द्रां
यः
करिणीं
यष्टिं
सुवर्णां
हेममालिनीम्
।
सूर्यां
हिरण्मयीं
लक्ष्मीं
जातवेदो
म
आवह
॥१४॥
तां
म
आवह
जातवेदो
लक्ष्मीमनपगामिनीम्
।
यस्यां
हिरण्यं
प्रभूतं
गावो
दास्योऽश्वान्
विन्देयं
पूरुषानहम्
॥१५॥
यः
शुचिः
प्रयतो
भूत्वा
जुहुयादाज्यमन्वहम्
।
सूक्तं
पञ्चदशर्चं
च
श्रीकामः
सततं
जपेत्
॥१६॥
पद्मानने
पद्म
ऊरु
पद्माक्षी
पद्मासम्भवे
।
त्वं
मां
भजस्व
पद्माक्षी
येन
सौख्यं
लभाम्यहम्
॥१७॥
अश्वदायि
गोदायि
धनदायि
महाधने
।
धनं
मे
जुषताम्
देवी
सर्वकामांश्च
देहि
मे
॥१८॥
पुत्रपौत्र
धनं
धान्यं
हस्त्यश्वादिगवे
रथम्
।
प्रजानां
भवसि
माता
आयुष्मन्तं
करोतु
माम्
॥१९॥
धनमग्निर्धनं
वायुर्धनं
सूर्यो
धनं
वसुः
।
धनमिन्द्रो
बृहस्पतिर्वरुणं
धनमश्नुते
॥२०॥
वैनतेय
सोमं
पिब
सोमं
पिबतु
वृत्रहा
।
सोमं
धनस्य
सोमिनो
मह्यं
ददातु
॥२१॥
न
क्रोधो
न
च
मात्सर्य
न
लोभो
नाशुभा
मतिः
।
भवन्ति
कृतपुण्यानां
भक्तानां
श्रीसूक्तं
जपेत्सदा
॥२२॥
वर्षन्तु
ते
विभावरि
दिवो
अभ्रस्य
विद्युतः
।
रोहन्तु
सर्वबीजान्यव
ब्रह्म
द्विषो
जहि
॥२३॥
पद्मप्रिये
पद्म
पद्महस्ते
पद्मालये
पद्मदलायताक्षि
।
विश्वप्रिये
विष्णु
मनोऽनुकूले
त्वत्पादपद्मं
मयि
सन्निधत्स्व
॥२४॥
या
सा
पद्मासनस्था
विपुलकटितटी
पद्मपत्रायताक्षी
।
गम्भीरा
वर्तनाभिः
स्तनभर
नमिता
शुभ्र
वस्त्रोत्तरीया
॥२५॥
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता
हेमकुम्भैः
।
नित्यं
सा
पद्महस्ता
मम
वसतु
गृहे
सर्वमाङ्गल्ययुक्ता
॥२६॥
लक्ष्मीं
क्षीरसमुद्र
राजतनयां
श्रीरङ्गधामेश्वरीम्
।
दासीभूतसमस्त
देव
वनितां
लोकैक
दीपांकुराम्
॥२७॥
श्रीमन्मन्दकटाक्षलब्ध
विभव
ब्रह्मेन्द्रगङ्गाधराम्
।
त्वां
त्रैलोक्य
कुटुम्बिनीं
सरसिजां
वन्दे
मुकुन्दप्रियाम्
॥२८॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती
।
श्रीलक्ष्मीर्वरलक्ष्मीश्च
प्रसन्ना
मम
सर्वदा
॥२९॥
वरांकुशौ
पाशमभीतिमुद्रां
करैर्वहन्तीं
कमलासनस्थाम्
।
बालार्क
कोटि
प्रतिभां
त्रिणेत्रां
भजेहमाद्यां
जगदीस्वरीं
त्वाम्
॥३०॥
सर्वमङ्गलमाङ्गल्ये
शिवे
सर्वार्थ
साधिके
।
शरण्ये
त्र्यम्बके
देवि
नारायणि
नमोऽस्तु
ते
॥३१॥
सरसिजनिलये
सरोजहस्ते
धवलतरांशुक
गन्धमाल्यशोभे
।
भगवति
हरिवल्लभे
मनोज्ञे
त्रिभुवनभूतिकरि
प्रसीद
मह्यम्
॥३२॥
विष्णुपत्नीं
क्षमां
देवीं
माधवीं
माधवप्रियाम्
।
विष्णोः
प्रियसखीं
देवीं
नमाम्यच्युतवल्लभाम्
॥३३॥
महालक्ष्मी
च
विद्महे
विष्णुपत्नीं
च
धीमहि
।
तन्नो
लक्ष्मीः
प्रचोदयात्
॥३४॥
श्रीवर्चस्यमायुष्यमारोग्यमाविधात्
पवमानं
महियते
।
धनं
धान्यं
पशुं
बहुपुत्रलाभं
शतसंवत्सरं
दीर्घमायुः
॥३५॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः
।
भयशोकमनस्तापा
नश्यन्तु
मम
सर्वदा
॥३६॥
य
एवं
वेद
ॐ
महादेव्यै
च
विष्णुपत्नीं
च
धीमहि
।
तन्नो
लक्ष्मीः
प्रचोदयात्
ॐ
शान्तिः
शान्तिः
शान्तिः
॥३७॥
Attention! Feel free to leave feedback.