Mangesh Borgaonkar - Naag Shanti Stotram текст песни

Текст песни Naag Shanti Stotram - Mangesh Borgaonkar




आरक्तेन शरीरेण रक्तान्तायत लोचनः
महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः
अनन्तो नागराजेन्द्रः शिवपादार्चने रतः
महापापविषं हत्वा शान्तिमाशु करोतु मे
सुष्वेतेन तु देहेन सुष्वेतोत्पलशेखरः
चारुभोगकृताटोपो हारचारुविभूषणः
वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान्
महापापं विषं हत्वा शान्तिमाशु करोतु मे
अतिपीतेन देहेन विस्फुरद्भोगसम्पदा
तेजसाचातिदीप्तेन कृतस्वस्तिकलाञ्छनः
नागरात्तक्षक श्रीमान् नागकोट्या समन्वितः
करोतु मे महाशान्तिं सर्वदोषविषावः
अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः
कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः
कर्कोटको महानागो विषदर्पबलान्वितः
विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे
पद्मवर्णेन देहेन चारुपद्मायतेक्षणः
पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः
ख्यातः पद्मो महानागो हरपादार्चने रतः
करोतु मे महाशान्तिं महापापं विषक्षयम्
पुण्डरीकनिभेनापि देहेनामिततेजसा
शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा
महापद्मो महानागो नित्यं पशुपतौ रतः
विनिर्धूतविषं घोरं शान्तिमाशु करोतु मे
शामेन देहभारेण श्रीमत्कमललोचनः
विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया
शङ्खपालः श्रियादिप्तः शिवपादाब्जपूजकः
महाविषं महापापं हत्वा शान्तिं करोतु मे
अतिगौरेण देहेन चन्द्रार्द्धकृतमस्तकः
दीप्तभोगकृताटोपः शुभलक्षणलक्षितः
पुलिको नागराजेषो नित्यं हरपरायणः
अपरहृत्य विषं घोरं करोतु मम शान्तिकम्
अन्तरिक्षे ये नागा ये नागः स्वर्गसंस्थितः
गिरिकंदरदुर्गेषु ये नागा भूमिसंस्थितः
पाताले ये स्थिता नागः सर्वेऽप्यन्ने समाहितः
रुद्रपादार्चने शान्तः कुर्वन्तु मम शान्तिकम्
नागिन्यो नागपत्न्यश्च तथा कन्यः कुमारिकः
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा
यदिदं नागसंस्थानं कीर्तनः श्रवणादपि
तं सर्पा विहिंसन्ति विषं क्रमते सदा
चिन्तितं सिद्ध्यते नित्यं तथा पापपरिक्षयः
सिद्धिमाशु प्रयच्छन्ति सर्वविघ्नविवर्जितः



Авторы: Traditional


Внимание! Не стесняйтесь оставлять отзывы.