Текст песни Shree Ramraksha Stotra - Rekha Bharadwaj
॥ श्रीरामरक्षास्तोत्रम्
॥
श्रीगणेशायनम:
।
अस्य
श्रीरामरक्षास्तोत्रमन्त्रस्य
।
बुधकौशिक
ऋषि:
।
श्रीसीतारामचंद्रोदेवता
।
अनुष्टुप्
छन्द:
। सीता
शक्ति:
।
श्रीमद्हनुमान्
कीलकम्
।
श्रीसीतारामचंद्रप्रीत्यर्थे
जपे
विनियोग:
॥
॥ अथ
ध्यानम्
॥
ध्यायेदाजानुबाहुं
धृतशरधनुषं
बद्दद्पद्मासनस्थं
।
पीतं
वासोवसानं
नवकमलदलस्पर्धिनेत्रं
प्रसन्नम्
॥
वामाङ्कारूढसीता
मुखकमलमिलल्लोचनं
नीरदाभं
।
नानालङ्कारदीप्तं
दधतमुरुजटामण्डनं
रामचंद्रम्
॥
॥ इति
ध्यानम्
॥
चरितं
रघुनाथस्य
शतकोटिप्रविस्तरम्
।
एकैकमक्षरं
पुंसां
महापातकनाशनम्
॥१॥
ध्यात्वा
नीलोत्पलश्यामं
रामं
राजीवलोचनम्
।
जानकीलक्ष्मणॊपेतं
जटामुकुटमण्डितम्
॥२॥
सासितूणधनुर्बाणपाणिं
नक्तं
चरान्तकम्
।
स्वलीलया
जगत्त्रातुमाविर्भूतमजं
विभुम्
॥३॥
रामरक्षां
पठॆत्प्राज्ञ:
पापघ्नीं
सर्वकामदाम्
।
शिरो
मे
राघव:
पातु
भालं
दशरथात्मज:
॥४॥
कौसल्येयो
दृशौ
पातु
विश्वामित्रप्रिय:
श्रुती
।
घ्राणं
पातु
मखत्राता
मुखं
सौमित्रिवत्सल:
॥५॥
जिव्हां
विद्दानिधि:
पातु
कण्ठं
भरतवंदित:
।
स्कन्धौ
दिव्यायुध:
पातु
भुजौ
भग्नेशकार्मुक:
॥६॥
करौ
सीतपति:
पातु
हृदयं
जामदग्न्यजित्
।
मध्यं
पातु
खरध्वंसी
नाभिं
जाम्बवदाश्रय:
॥७॥
सुग्रीवेश:
कटी
पातु
सक्थिनी
हनुमत्प्रभु:
।
ऊरू
रघुत्तम:
पातु
रक्ष:
कुलविनाशकृत्
॥८॥
जानुनी
सेतुकृत्पातु
जङ्घे
दशमुखान्तक:
।
पादौ
बिभीषणश्रीद:
पातु
रामोSखिलं
वपु:
॥९॥
एतां
रामबलोपेतां
रक्षां
य:
सुकृती
पठॆत्
।
स
चिरायु:
सुखी
पुत्री
विजयी
विनयी
भवेत्
॥१०॥
पातालभूतलव्योम
चारिणश्छद्मचारिण:
।
न
द्र्ष्टुमपि
शक्तास्ते
रक्षितं
रामनामभि:
॥११॥
रामेति
रामभद्रेति
रामचंद्रेति
वा
स्मरन्
।
नरो
न
लिप्यते
पापै
भुक्तिं
मुक्तिं
च
विन्दति
॥१२॥
जगज्जेत्रैकमन्त्रेण
रामनाम्नाभिरक्षितम्
।
य:
कण्ठे
धारयेत्तस्य
करस्था:
सर्वसिद्द्दय:
॥१३॥
वज्रपंजरनामेदं
यो
रामकवचं
स्मरेत्
।
अव्याहताज्ञ:
सर्वत्र
लभते
जयमंगलम्
॥१४॥
आदिष्टवान्
यथा
स्वप्ने
रामरक्षामिमां
हर:
।
तथा
लिखितवान्
प्रात:
प्रबुद्धो
बुधकौशिक:
॥१५॥
आराम:
कल्पवृक्षाणां
विराम:
सकलापदाम्
।
अभिरामस्त्रिलोकानां
राम:
श्रीमान्
स
न:
प्रभु:
॥१६॥
तरुणौ
रूपसंपन्नौ
सुकुमारौ
महाबलौ
।
पुण्डरीकविशालाक्षौ
चीरकृष्णाजिनाम्बरौ
॥१७॥
फलमूलशिनौ
दान्तौ
तापसौ
ब्रह्मचारिणौ
।
पुत्रौ
दशरथस्यैतौ
भ्रातरौ
रामलक्ष्मणौ
॥१८॥
शरण्यौ
सर्वसत्वानां
श्रेष्ठौ
सर्वधनुष्मताम्
।
रक्ष:
कुलनिहन्तारौ
त्रायेतां
नो
रघुत्तमौ
॥१९॥
आत्तसज्जधनुषा
विषुस्पृशा
वक्षया
शुगनिषङ्ग
सङिगनौ
।
रक्षणाय
मम
रामलक्ष्मणा
वग्रत:
पथि
सदैव
गच्छताम्
॥२०॥
संनद्ध:
कवची
खड्गी
चापबाणधरो
युवा
।
गच्छन्मनोरथोSस्माकं
राम:
पातु
सलक्ष्मण:
॥२१॥
रामो
दाशरथि:
शूरो
लक्ष्मणानुचरो
बली
।
काकुत्स्थ:
पुरुष:
पूर्ण:
कौसल्येयो
रघुत्तम:
॥२२॥
वेदान्तवेद्यो
यज्ञेश:
पुराणपुरुषोत्तम:
।
जानकीवल्लभ:
श्रीमानप्रमेय
पराक्रम:
॥२३॥
इत्येतानि
जपेन्नित्यं
मद्भक्त:
श्रद्धयान्वित:
।
अश्वमेधायुतं
पुण्यं
संप्राप्नोति
न
संशय:
॥२४॥
रामं
दूर्वादलश्यामं
पद्माक्षं
पीतवाससम्
।
स्तुवन्ति
नामभिर्दिव्यैर्न
ते
संसारिणो
नर:
॥२५॥
रामं
लक्शमण
पूर्वजं
रघुवरं
सीतापतिं
सुंदरम्
।
काकुत्स्थं
करुणार्णवं
गुणनिधिं
विप्रप्रियं
धार्मिकम्
राजेन्द्रं
सत्यसंधं
दशरथनयं
श्यामलं
शान्तमूर्तिम्
।
वन्दे
लोकभिरामं
रघुकुलतिलकं
राघवं
रावणारिम्
॥२६॥
रामाय
रामभद्राय
रामचंद्राय
वेधसे
।
रघुनाथाय
नाथाय
सीताया:
पतये
नम:
॥२७॥
श्रीराम
राम
रघुनन्दन
राम
राम
।
श्रीराम
राम
भरताग्रज
राम
राम
।
श्रीराम
राम
रणकर्कश
राम
राम
।
श्रीराम
राम
शरणं
भव
राम
राम
॥२८॥
श्रीरामचन्द्रचरणौ
मनसा
स्मरामि
।
श्रीरामचन्द्रचरणौ
वचसा
गृणामि
।
श्रीरामचन्द्रचरणौ
शिरसा
नमामि
।
श्रीरामचन्द्रचरणौ
शरणं
प्रपद्ये
॥२९॥
माता
रामो
मत्पिता
रामचंन्द्र:
।
स्वामी
रामो
मत्सखा
रामचंद्र:
।
सर्वस्वं
मे
रामचन्द्रो
दयालु
।
नान्यं
जाने
नैव
जाने
न
जाने
॥३०॥
दक्षिणे
लक्ष्मणो
यस्य
वामे
तु
जनकात्मजा
।
पुरतो
मारुतिर्यस्य
तं
वन्दे
रघुनंदनम्
॥३१॥
लोकाभिरामं
रनरङ्गधीरं
राजीवनेत्रं
रघुवंशनाथम्
।
कारुण्यरूपं
करुणाकरंतं
श्रीरामचंद्रं
शरणं
प्रपद्ये
॥३२॥
मनोजवं
मारुततुल्यवेगं
जितेन्द्रियं
बुद्धिमतां
वरिष्ठम्
।
वातात्मजं
वानरयूथमुख्यं
श्रीरामदूतं
शरणं
प्रपद्ये
॥३३॥
कूजन्तं
रामरामेति
मधुरं
मधुराक्षरम्
।
आरुह्य
कविताशाखां
वन्दे
वाल्मीकिकोकिलम्
॥३४॥
आपदामपहर्तारं
दातारं
सर्वसंपदाम्
।
लोकाभिरामं
श्रीरामं
भूयो
भूयो
नमाम्यहम्
॥३५॥
भर्जनं
भवबीजानामर्जनं
सुखसंपदाम्
।
तर्जनं
यमदूतानां
रामरामेति
गर्जनम्
॥३६॥
रामो
राजमणि:
सदा
विजयते
रामं
रमेशं
भजे
।
रामेणाभिहता
निशाचरचमू
रामाय
तस्मै
नम:
।
रामान्नास्ति
परायणं
परतरं
रामस्य
दासोS
1 Signature Prayer
2 Commentary
3 Aum
4 Surya Namaskaar
5 Snaana Mantra
6 Ganesh Stuti
7 Shree Pragyavivardhanam Mantra
8 Saraswati Sholka - Saraswati Dwadash Naa
9 Deep Poojanam
10 Mahamrityunjaya Mantra
11 Shree Ramraksha Stotra
12 Vaani Dosha Nivaran Mantra
13 Duhswapna Nivaran Mantra
14 Vande Maataram
Внимание! Не стесняйтесь оставлять отзывы.